📚 गीताविवृतिः (राघवेन्द्रतीर्थः) - अध्यायः ९
Page 1
Download 📥
________________ श्रीभगवानुवाच इदं तु ते गुह्यत॒मं प्रवक्ष्याम्यनसूयवे । ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥ ९.१॥ ॐ । सप्तमेऽध्याये साधिभूताधिदैवं मां साधियज्ञं च ये विदुः' (७.३०) इत्यादिनोक्तं भगवन्माहात्म्यं अत्राध्याये प्रपञ्च्यते । न चैव तदानंतर्यमेवास्य शङ्क्यम् । अध्यात्मादिपदानां निरूपणेन परिहारोक्तयनंतरमेवात्र साधिभूतादिवाक्यार्थभूतभगवन्माहात्म्य- वर्णनस्यावसरादिति ध्येयम् । अतिचित्रमहिमानं वक्तुं तत्रादरजननाय प्रतिज्ञापूर्वं वक्ष्यमाणं प्रशंसति ॥ इदं त्विति । गुह्यतममतिगोप्यमिदं वक्ष्यमाणं ज्ञानम् । कर्मणि ल्युट् । ज्ञातव्यं विशेषेण ज्ञातव्यसहितम् । अनसूयवे असूयादिदोषहीनाय । एवंरूप एवाधिकारीति ज्ञापनायैतद्विशेषणोक्तिः । ते तुभ्यं प्रवक्ष्यामि यज्ञात्वा अशुभान्मोक्ष्यसे । यच्छब्दस्येदंत्वित्यनेनान्वयः ॥९.१॥ राजविद्याराजगुह्यं पवित्रमिदमुत्तमम् । प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ॥९.२॥ पुनः प्रशंसति ॥ राजेति । इदं वक्ष्यमाणं राजविद्या राज्ञी चासौ विद्या च राजविद्या । विद्यानां प्रधानविद्येत्यर्थः । राजगुह्यं गुह्यानां गोप्यानां मध्ये प्रधानगोप्यम् । पवित्रं पावित्र्यहेतुम् । अत एवोत्तमम् । प्रत्यक्षावगमं अक्षेषु प्रति प्रति स्थितः प्रत्यक्षो भगवान् । कुगतिप्रादय इति प्रादिसमासो नाव्ययीभावः । अवगम्यते साक्षात्क्रियते येन तत् अवगमम् । ग्रहवृद्दनिश्चगमश्चेति करणे गमेरप्प्रत्ययः । प्रत्यक्षस्य हरेरवगमं प्रत्यक्षावगमं सर्वेन्द्रियप्रेरकभगवदपरोक्षज्ञानसाधनम् । धर्म्यं सर्व(र्वा)धारकत्वाद्धर्मो भगवान् । धृञ् धारण इत्यतः औणादिको मन्प्रत्ययः । दर्मादनपेतं तद्विषयं धर्म्यम् । सर्वधारकभगवद्विषयपरोक्षज्ञानं भगवदपरोक्षज्ञप्तिसाधनम्, अव्ययं अक्षयमोक्षफलकं कर्तुं संपादयितुं सुसुखं अत्यंतसुलभमित्यर्थः । प्रवक्ष्यामीति पूर्वेणान्वयः ॥९.२॥ १